Sunday, 3 September 2017

॥ श्रीगणेशमहिम्नःस्तोत्रम् ॥ 

।।श्री गणेशाय नमः।। ।।श्रीमदसद्गुरुवे नमः।।  अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गलित- स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः । यतो जातं विश्वं स्थितमपि सदा यत्र विलयः स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥ १॥  गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः । वदन्त्येके शाक्ता जगदुदयमूलां परिशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २॥  तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् । अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३॥  कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणिर्यथा धीर्यस्य स्यात् स च तदनुरूपो गणपतिः । महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद् ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किं च सदसत् ॥ ४॥  अनेकास्योऽपाराक्षि- करचरणोऽनन्त-हृदयस्तथा नानारूपो विविधवदनः श्रीगणपतिः । अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये त्वसंख्यातानन्ताभिमत- फलदोऽनेकविषये ॥ ५॥  न यस्याऽन्तो मध्यो न च भवति चादिः सुमहतामलिप्तः कृत्वेत्थं सकलमपि खंवत् स च पृथक् । स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो नमस्तस्मै देवाय सकलसुरवन्द्याय महते ॥ ६॥  गणेशाद्यं बीजं दहन-वनिता-पल्लवयुतं मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदम् । सबिन्दुश्चागाद्याङ्गणकऋषिछन्दोऽस्य च निचृत् स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७॥  गकारो हेरम्बः सगुण इति पुनिर्गुणमयो द्विधाऽप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः । स चेशश्चोत्पत्ति-स्थिति- लयकरोऽयं प्रथमको यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८॥  गकारः कण्ठोर्ध्व गजमुखसमो मर्त्यसदृशो णकारः कण्डाधो जठरसदृशाकार इति च । अधोभागः कट्यां चरण इति हीशोऽस्य च तनु- र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥ ९॥  गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् । गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥ १०॥  गणेशेत्याह्वां यः प्रवदति मुहुस्तस्य पुरतः प्रपश्यँस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा । स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११॥  गणेशो विश्वेऽस्मिन् स्थित इह च विश्वं गणपतौ गणेशो यत्रास्ते धृति- मतिरनैश्वर्यमखिलम् । समुक्तं नामैकं गणपतिपदं मंगलमयं तदेकास्यं दृष्टेः सकल-विबुधास्येक्षण- समम् ॥ १२॥  बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये क्षणात् क्लेशान् मुक्तोभवति सहसा त्वभ्रचयवत् । बने विद्यारम्भे युधि रिपुभये कुत्र गमने प्रवेशे प्राणान्ते गणपतिपदं चाऽऽशु विशति ॥ १३॥  गणाध्यक्षो ज्येष्ठः कपिल अपरो मंगलनिधि- र्दयालुर्हेरमबो वरद इति चिन्तामणिरजः । वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ १४॥  महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरूदधिः । कुजस्तारः शुक्रो गुरुरुडुबुधोऽगुश्च धनदो यमः पाशो काव्यः शनिरखिलरूपो गणपतिः ॥ १५॥  मुखं वह्विः पादौ हरिरपि विधाता प्रजननं रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः । करौ शक्रः कट्यामवनिरूदरं भाति दशनं गणेशस्यासन् वै क्रतुमयवपुश्चैव सकलम् ॥ १६॥  अनर्ध्यालंकारैररुण-वसनैर्भूषित- तनुः करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् । स्थितः स्यात्तन्मध्येऽप्युदित- रविबिम्बोपम-रुचिः स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥ १७॥  समन्तात्तस्यासन् प्रवरमुनिसिद्धाः सुरगणाः प्रशंसन्तीत्यग्रे विविधनुतिभिः साऽञ्जलिपुटाः । बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै- र्गणक्रीडामोद-प्रमुद-विकटाद्यैः सहचरैः ॥ १८॥  वशित्वाद्यष्टाष्टादश-दिगखिलाल्लोलमनुवाग् धृतिः पादूः खड्गोऽञ्जनरसबलाः सिद्धय इमाः । सदा पृष्ठे तिष्टन्त्यानिमिषिदृशस्तन्मुखलया गणेशं सेवन्तेऽत्यतिनिकटसूपायनकराः ॥ १९॥  मृगांकास्या रम्भाप्रभृतिगणिका यस्य पुरतः सुसंगीत कुर्वन्त्यपि कुतुकगन्धर्वसहिताः । मुदः पारो नाऽत्रेत्यनुपमपदे दोर्विगलिता स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २०॥  हरेणाऽयं ध्यातस्त्रिपुरमथने चाऽसुरवधे गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा । विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१॥  अयं सुप्रासादे सुर इव निजानन्दभुवने महान् श्रीमानाद्यो लघुतरगृहे रंकसदृशः । शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपरः ॥ २२॥  अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः । दयालुर्हेरम्बो न च भवति यस्मिंश्च पुरुषे वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥ २३॥  वरेण्यो भूशुण्डिर्भृगु-गुरु-कुजा-मुद्गलमुखा ह्यपारास्तद्भक्ता जप-हवन-पूजा-स्तुतिपराः । गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥ २४॥  मृदः काश्चिद्धातोश्छद- विलिखिता वाऽपि दृषदः स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा । अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः श्रुत्वा शुद्धो मर्त्यो भवति दुरिताद् विस्मय इति ॥ २५॥  बहिर्द्वारस्योर्ध्वं गजवदन-वर्ष्मेन्धनमयं प्रशस्तं वा कृत्वा विविध कुशलैस्तत्र निहितम् । प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६॥  सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्ति कृत्वा गणपतितिथौ ढुण्ढिसदृशीम् । समर्चन्त्युत्साहः प्रभवति महान् सर्व सदने विलोक्यानन्दस्ताम् प्रभवति नृणां विस्मय इति ॥२७।।  तथा ह्येकः श्लोको वरयति महिम्नो गणपतेः कथं स श्लोके ऽस्मिन् स्तुत इति भवेत् सम्प्रपठिते । स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं यतो यस्यैकस्य स्तवनसदृशं नाऽन्यदपरम् ॥ २८॥  गजवदन विभो यद्- वर्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु । त्वमसि च करुणायाः सागरः कृत्स्नदाता- अप्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९॥  सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानन्दं प्रति गमनेऽप्ययं सुमार्गः । सचिन्त्यं स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नतीः करिष्ये ॥ ३०॥  गणेशदेवस्यं महात्म्यमेतद् यः श्रावयेद्वाऽपि पठेच्च तस्य । क्लेशा लयं यान्ति लभेच्च शीघ्रं स्त्री-पुत्र- विद्यार्थ-गृहं च मुक्तिम् ॥ ३१॥  ॥ इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नः स्तोत्रं सम्पूर्णम् ॥ ।।श्रीमदगणेशार्पणमस्तु।। ।।श्रीमदसद्गुरुपादार्पणमस्तु।। 🌺🌺🌺🏵️🏵️🏵️🌺🌺🌺🏵️🏵️🏵️🌺🌺🌺

No comments:

Post a Comment