Monday, 8 May 2023

[5/8, 11:35 AM] +91 94049 12121: तारास्तोत्रम् अथवा ताराष्टकं अथवा श्रीनीलसरस्वतीस्तोत्रम् श्रीगणेशाय नमः ।मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदेप्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले खड्गंचादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरिगद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधेसौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥ २॥खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वलेव्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज-ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३॥मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिकेहुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः ।मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मापरा वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये ॥ ४॥त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतांतस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान्मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते ॥ ५॥मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्तेदेवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः ।देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परेतत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् ॥ ६॥त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं च शक्ता न तेभूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः ।दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवोडाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले ॥ ७॥लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणांस्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाःक्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः ॥ ८॥ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः ।प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९॥लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत्लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।कीर्तिं कान्तिं च नैरुज्यं प्राप्यान्ते मोक्षमाप्नुयात् ॥ १०॥॥ इति श्रीनीलतन्त्रे तारास्तोत्रं अथवा ताराष्टकं सम्पूर्णम् ॥[5/8, 12:04 PM] +91 94049 12121: श्रीताराशतनामस्तोत्रम् १ :----श्रीशिव उवाच ॥ॐ तारिणी तरला तन्वी तारा तरुणवल्लरी ।तीव्ररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १॥तुरीया तरला(तरुणा) तीव्रगमना नीलवाहिनी ।उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥ २॥तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी ।उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३॥द्वितीया शोभना नित्या नवीना नित्यनूतना ।चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४॥अट्टहास्या करालास्या चरास्या दितिपूजिता ।सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५॥रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥बलप्रिया बलरता बलरामप्रपूजिता ।अर्धकेशेश्वरी केशा केशवासविभूषिता ॥ ७॥पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥ ८॥वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९॥इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥ १०॥तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥ ११॥ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।तालदानरता क्रूरतापिनी तरणिप्रभा ॥ १२॥त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥ १३॥शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४॥बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी ।रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५॥इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६॥य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् ।सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥ १७॥तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा ।भवत्येव महामाये सत्यं सत्यं न संशयः ॥ १८॥मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥ १९॥श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् ।सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २०॥सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ।ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१॥इति स्वर्णमालातन्त्रे ताराशतनामस्तोत्रं समाप्तम् ॥एवं चइति मुण्डमालातन्त्रे हरपार्वती-संवादे त्रयोदशपटलान्तर्गतंताराशतनामस्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment