Wednesday, 22 November 2023

ll श्री शंकर ll आज प्रबोधिनी एकादशी तसेच तुलसी शालिग्राम ( श्रीकृष्ण ) विवाहll श्रीतुलसीस्तुती ll तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।नमस्ते नारदनुते नारायणमनःप्रिये ॥ १॥मनः प्रसादजननि सुखसौभाग्यदायिनि ।आधिव्याधिहरे देवि तुलसि त्वां नमाम्यहम् ॥ २॥यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।यदग्रे सर्व वेदाश्च तुलसि त्वां नमाम्यहम् ॥ ३॥अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् ।आधिव्याधिहरीं नॄणां तुलसि त्वां नम्राम्यहम् ॥ ४॥देवैस्त्चं निर्मिता पूर्वं अर्चितासि मुनीश्वरैः ।नमो नमस्ते तुलसि पापं हर हरिप्रिये ॥ ५॥सौभाग्यं सन्ततिं देवि धनं धान्यं च सर्वदा ।आरोग्यं शोकशमनं कुरु मे माधवप्रिये ॥ ६॥तुलसी पातु मां नित्यं सर्वापद्भयोऽपि सर्वदा ।कीर्तिताऽपि स्मृता वाऽपि पवित्रयति मानवम् ॥ ७॥या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुःपावनीरोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी ।प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपितान्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ८॥ll श्रीकृष्णार्पणमस्तु ll

No comments:

Post a Comment