Friday, 28 May 2021

पितृस्तोत्र

🌹 *पित्रृस्तोत्र* 🌹


मार्कण्डेय उवाच 
एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः । 
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७ ॥ 
तद् दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् । 
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ ॥ ३८ ॥ 
रुचिरुवाच 
अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् । 
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥ 
 इद्रादीनां च नेतारो दक्षमारीचयोस्तथा । 
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ २ ॥ 
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा । 
तान्नमस्याम्यहं सर्वान् पितृनप्युदधावपि ॥ ३ ॥ 
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा । 
द्दावापृथिव्योश्र्च तथा नमस्यामि कृताञ्जलिः ॥ ४ ॥ 
प्रजापतेः कश्यपाय सोमाय वरुणाय च । 
योगेश्र्वरेभ्यश्र्च सदा नमस्यामि कृताञ्जलिः ॥ ५ ॥ 
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु । 
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ६ ॥ 
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा । 
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ७ ॥ 
अग्निरुपांस्तथैवान्यात्रमस्यामि पितृनहम् । 
अग्निसोममयं विश्र्वं यत एतदशेषतः ॥ ८ ॥ 
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः । 
जगत्स्वरुपिणश्र्चैव तथा ब्रह्मस्वरुपिणः ॥ ९ ॥ 
तेभ्योsखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । 
नमो नमो नमस्तेsतु प्रसीदन्तु स्वधाभुजः ॥ १० ॥ 
मार्कण्डेय उवाच 
एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः । 
निश्र्चक्रमुस्ते पितरो भासयन्तो दिशो दश ॥ ११ ॥ 
निवेदनं च यत्तेन पुष्पगन्धानुलेपनम् । 
तद्भूषितानथ स तान् ददृशे पुरतः स्थितान् ॥ १२ ॥ 
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः । 
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ १३ ॥ 
॥ इति श्री गरुड पुराणे रुचिकृतं पित्रृस्तोत्रं संपूर्णम् ॥

*संकलन :- अशोककाका कुलकर्णी*

No comments:

Post a Comment