Friday, 6 August 2021

श्रीयोगेश्र्वरी सहस्त्रनामश्रीगणेशायनमः ॥ श्रीयोगेश्र्वर्यैनमः ॥ अथ मूल मंत्रः ॐ र्‍हीं नमो भगवति रक्तचामुंडे योगेश्र्वरी, योगिनीं र्‍हीं स्वाहा इति मंत्रः ।रक्तचामुंडायै विद्महे भूत संहारिण्यै च धीमहि ।तन्नो योगेश्र्वरी प्रचोदयात् ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपं ।सिद्धिर्भवतु मे देवी त्वत्प्रसादात्त्वयि स्थितिः ।लं, हं, यं, रं, वं ।अथ महामंत्रः ॐ अस्य योगेश्र्वरी महामन्त्रस्य महादेव ऋषिः ।अनुष्टुप् छंदः । श्री योगेश्र्वरी देवता । र्‍हीं बीजम् ।श्रीं शक्तिः । क्लीं कीलकम् । मम चतुर्विधपुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ।अथ न्यासः ॐ र्‍हीं अंगुष्ठाभ्यां नमः ।ॐ यं तर्जनीभ्यां नमः ।ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रदेवतायै अनामिकाभ्यां नमः ।ॐ योगेश्र्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकर पृष्ठाभ्यां नमः ।एवं हृदयादि न्यसेत् ।अथ ध्यानम् ॐ देवी भक्तजनप्रियां सुवदनां खड्गं च पात्रं तथा ।स्वर्णालङ्कृतलाङ्गलं सुमुसलं हस्तैर्दधानां श्रियम् ॥विद्युत्कोटिरवीन्दुकान्ति धवलां दन्तासुरोन्मूलिनीं ।ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्र्वरीं संभजे ॥ १ ॥लं पृथिव्यादि पंच मानसोपचारैः संपूज्य जपेत् ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि नमः ॐ हं आकाशात्मने पुष्पं परिकल्पयामि नमः ॐ यं वायव्यात्मने धूपं परिकल्पयामि नमःॐ रं अग्न्यात्मने दीपं परिकल्पयामि नमःॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि नमःॐ सं सर्वात्मने फलं तांबूलं दक्षणांच परिकल्पयामि नमःअथ मन्त्रःॐ र्‍हीं यं यां रुद्रदेवतायै योगेश्र्वर्यै स्वाहाउत्तर न्यासं कृत्वा गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् ।सिद्धिर्भवतु मेदेवित्वत्प्रसादात्सुरेश्र्वरि ॥इति ॐ ॐ ॐ अथ श्री योगेश्र्वरी सहस्त्रनाम प्रारंभः ।ॐ या तुरीया परादेवी दोषत्रयविवर्जिता ।सदानंदतनुः शांता सैवाहमहमेव सा ॥ १ ॥यस्याः संस्मरणादेव क्षोयंते भवभीतयः । तां नमामि जगद्धात्रीं योगिनीं परयोगिनीम् ॥ २ ॥महदादि जगद्यस्या जातं रज्जुभुजगंवत् ।सा अंबापुरसंस्थाना पातु योगेश्र्वरी ॥ ३ ॥सच्चिदानंदरुपाय प्रतीचेनंत रुपिणे ।नमो वेदांतवेद्याय महसेमिततेजसे ॥ ४ ॥श्री ईश्र्वर उवाच ।यो नित्यं पुजयेद्देवीं योगिनीं योगवित्तमां ।तस्यायुः पुत्रसौख्यं च विद्यादात्री भवत्यसौ ॥ ५ ॥यो देवीभक्तिसंयुक्तस्तस्य लक्ष्मीश्च किंकरी ।राजानो वश्यतां यांति स्त्रियो वै मदवोव्हलाः ॥ ६ ॥यो भवानीं महामायां पूजयेन्नित्य मादृतः । ऐहिकं च सुखं प्राप्य परे ब्रह्मणि लीयते ॥ ७ ॥श्रीविष्णुरुवाच ।देव देव महादेव नीलकंठ उमापते । रहस्यं प्रष्टुमिच्छामि संशयोऽस्ति महामते ॥ ८ ॥चराचरस्य कर्ता त्वं संहर्ता पालकस्तथा । कस्या देव्यास्त्वया शंभो क्रियतेस्तुतितन्वहम् ॥ ९ ॥ जप्यते परमो मंत्रो ध्यायते किं त्वया प्रभो ।वद शंभो महादेव त्वतः का परदेवता ॥ १० ॥ प्रसन्नो यदि देवेश परमेश पुरातन ।रहस्यं परया देव्या कृपया कथय प्रभो ॥ ११ ॥विनायासं विनाजाप्यं विनाध्यानं विनार्चनम् ।प्राणायामं विना होमं विनानित्योदितक्रियाम् ॥ १२ ॥विनादानं विनागंधं विनापुष्पं विनाबलिम् ।विनाभूतादिशुद्धि च यथा देवी प्रसीदति ॥ १३ ॥ईति पृष्टस्तदा शंभुर्विष्णुना प्रभविष्णुना ।प्रोवाच भगवान्देवी विकसन्नेत्र पंकजः ॥ १४ ॥श्रीशिव उवाच ।साधु साधु सुरश्रेष्ठ पृष्ठवानसि सांप्रतं ।षण्मुखस्यापि यद्गोप्तं रहस्यं तद्वदामि ते ॥ १५ ॥पुरा युगक्षये लोकान्कर्तुमिच्छुः सुरासुरम् ।गुणत्रयमयी शक्तिश्चिद्रूपाद्या व्यवस्थिता ॥ १६ ॥तस्यामहं समुत्पन्नो मत्तस्त्वं जगतःपिता ।त्वत्तोब्रह्मा समुद्भूतो लोककर्ता महाविभुः ॥ १७ ॥ब्रह्मणो ऋषयो जातास्तत्त्वैस्तैर्महादिभिः ।चेतनेति ततः शक्तिर्मां काप्यालिंग्य तिष्ठति ॥ १८ ॥आराधिता स्तुता सैव सर्वमंगलकारिणी ।तस्यास्त्वनुग्रहादेव मया प्राप्तं परं पदम् ॥ १९ ॥स्तौमि तां च महामायां प्रसन्ना च ततः शिवा ।नामानि ते प्रवक्ष्यामि योगेश्र्वर्याः शुभानि च ॥ २० ॥एतानि प्रपठेद्विद्वान्नमोंतानि सुरेश्वर ।तस्या स्तोत्रं महापुण्यं स्वयंकल्पात्प्रकाशितम् ॥ २१ ॥गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।तव तत्कथयिष्यामि श्रुत्वा तदवधारय ॥ २२ ॥यस्यैककालपठनात्सर्वे विघ्नाः पलायितः ।पठेसहस्त्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ॥ २३ ॥प्रसन्ना योगिनी तस्य पुत्रत्वेनानुकल्पते ।यथा ब्रह्मामृतैर्ब्रह्मकुसुमैः पूजितापरा ॥ २४ ॥प्रसीदति तथा तेन श्रुत्वा देवी प्रसीदति ।अस्य श्री योगेश्र्वरी सहस्त्रनामस्तोत्रमंत्रस्य श्रीमहादेव ऋषिः ।अनुष्टुप छंदः । श्रीयोगेश्र्वरी देवता ।मम सकलकामना सिद्धर्थं अंबापुरवासिनी प्रीत्यर्थं सहस्त्रनाम स्तोत्र जपे विनियोग ।अथन्यासः ॐ र्‍हीं अंगुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः ।ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रदेवतायै अनामिकाभ्यां नमः ।ॐ योगेश्र्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ।एवंहृदयादि षडंगन्यासः ।ॐ र्‍हीं हृदयाय नमः । ॐ यं शिरसे स्वाहा ।ॐ यां शिखायै वषट् । ॐ रुद्रदेवत्यायै कवचायहुं ।ॐ योगेश्र्वर्यै नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् ।ॐ भूर्भुवस्वरोमिति दिग्बंधः । अथ ध्यानं ।ॐ कालाभ्राभ्यां कटाक्षैरलिकुलभयदां मौलिबद्धेंदुरेखां ।शंखं चक्रं कपालं डमरुमपि करैरुद्वहंतीं त्रिनेत्रां । सिंहस्कंधाधिरुढां त्रिभुवनमखिलं तेजसा पूरयंतीं,ध्यायेदंबां जयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेंद्रः ॥ १ ॥ अथ सहस्त्रनाम स्तवनम् ।ॐ योगिनी योगमाया च योगपीठस्थितिप्रिया ।योगिनो योगदीक्षाच योगरुपाच योगिनी ॥ १ ॥योगगम्या योगरता योगीहृदयवासिनी । योगस्थिता योगयुता योगमार्गरता सदा ॥ २ ॥योगेश्र्वरी योगनिद्रा योगदात्री सरस्वती ।तपोयुक्ता तपःप्रितिः तपःसिद्धिप्रदापरा ॥ ३ ॥निशुंभशुंभसंहत्रीं रक्तबीज विनाशिनी ।मधुकैटभहंत्री च महिषासुरघातिनी ॥ ४ ॥शारदेंदुप्रतीकाशा चंद्रकोटिप्रकाशिनी ।महामाया महाकाली महामारी क्षुधातृषा ॥ ५ ॥निद्रातृष्णा चैकवीरा कालरात्रीर्दुरत्यया ।महाविद्या महावाणी भारतीवाक् सरस्वती ॥ ६ ॥आर्या ब्राह्मी महाधेनुर्वेदगर्भा च धीश्वरी ।कराला विकरालाख्या अतिकालातिदीपका ॥ ७ ॥ एकलिंगा योगिनी च डाकिनी भैरवी तथा ।महाभैरवकेंद्राक्षी त्वसितांगी सुरेश्वरी ॥ ८ ॥शांति चंद्रार्धमाकर्षी कलाकांति कलानिधीः ।सर्वसंक्षोभिणी शक्तिः सर्वाल्हादकरी प्रिया ॥ ९ ॥ सर्वाकर्षिणिकाशक्तिः सर्वविद्राविणी तथा ।सर्वसंमोहिनीशक्तिः सर्वस्तंभनकारिणी ॥ १० ॥सर्वजृंभनिका नाम शक्तिः सर्ववशंकरी ।महासौभाग्यगंभीरा पीनवृत्तघनस्तनी ॥ ११ ॥रत्नपीठाविनिक्षिप्ता साधकेप्सितभूषणा ।नानाशस्त्रधरादिव्या वसतीहर्षितानना ॥ १२ ॥खड्गपात्र धरादेवी दिव्यवस्त्रा च योगिनी ।सर्वसिद्धिप्रदादेवी सर्वसंपत्प्रदानता ॥ १३ ॥सर्वप्रियंकरीचैव सर्वमंगलकारिणी ।सा वैष्णवी सैव शैवी महारौद्री शिवा क्षमा ॥ १४ ॥कौमारी पार्वती सैव सर्वमंगलदायिनी ।ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥ १५ ॥वाराही चैव माहेंद्री चामुंडा सर्वदेवता ।अणिमा महिमा सिद्धिर्लघिमा शिवरुपिका ॥ १६ ॥वशित्वसिद्धिः प्राकाम्या भुक्तिरिच्छाष्टमी परा ।सर्वांकर्षणिकाशक्तिः सर्वाल्हादकरी प्रिया ॥ १७ ॥सर्वसंमोहिनीशक्तिः सर्वस्तंभनकारिणी सर्वजृंभनिका नाम शक्तिः सर्ववशंकरी ॥ १८ ॥सर्वार्थरंजिनीशक्तिः सर्वमोदनकारिणी ।सर्वार्थसाधकीशक्तिः सर्वसंपत्तिपूरकी ॥ १९ ॥सर्वमंत्रमयीशक्तिः सर्वद्वद्वक्षयंकरी ।सर्वकामप्रदादेवी सर्वदुःखप्रमोचनी ॥ २० ॥सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ।सर्वांगसुंदरादेवी सर्वसौभाग्यदायिनी ॥ २१ ॥सर्वरक्षाकरीदेवी अक्षवर्णविराजिता । नोमितां जगतां धात्री योगनिद्रास्वरुपिणीम् ।सर्वस्याद्या विशालाक्षी नित्या बुद्धिःस्वरुपिणी ॥ २२ ॥श्वेतपर्वतसंकाशा श्वेतवस्त्रा महासती ।नीलहस्ता रक्तमध्या सुश्वेतस्तनमंडला ॥ २३ ॥रक्तपादा नीलजंघा सिचित्रजघना विभो ।चित्रमाल्यांबरधरा चित्रगंधानुलेपना ॥ २४ ॥जपाकुसुमवर्णाभा रक्तांबरविभूषणा । रक्तायुधा रक्तनेत्रा रक्तकुंचितमूर्घना ॥ २५ ॥सर्वस्याद्या महालक्ष्मीनित्याबुद्धिस्वरुपिणी ।चतुर्भुजा रक्तदंता जगद्व्याप्यव्यवस्थिता ॥ २६ ॥नीलांजनचयप्रख्या महाद्रंष्टा महानना ।विस्तीर्णलोचनादेवी वृत्तपीनपयोधरा ॥ २७ ॥एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ।भीमा देवीति संपूज्या चैत्रपुत्र प्रदायिनी ॥ २८ ॥या सात्त्विकगुणा प्रोक्ता मायाविष्टसरस्वती ।सा देवकार्यवसति स्वरुपमपरं दधौ ॥ २९ ॥देवस्तुता तदा गौरी स्वदेहात्तरुणीं सृजत् ।ख्याता वै कौशिकी देवी ततः कृष्णाभवत्सती ॥ ३० ॥हिमाचलकृतस्थाना कालिकेति च विश्रुता । महासरस्वतीदेवी शुंभसुरनिबर्हिणी ॥ ३१ ॥श्वेतपर्वतसंकाशा श्वेतवस्त्राविभूषणा ।नानारत्नसमाकीर्णा वेदविद्याविनोदिनी ॥ ३२ ॥शस्त्रव्रातसमायुक्ता भारती सा सरस्वती ।वागीश्वरी पीतवर्णा सैवोक्ता कामदालया ॥ ३३ ॥कृष्णवर्णा महालंबा नीलोत्पलविलोचनी ।गंभीरनाभिस्त्रिवली विभूषिततनूदरी ॥ ३४ ॥सुकर्कशा चंद्रभासा वृत्तपीनपयोधरा । चतुर्भुजा विशालाक्षी कामोनीपद्मलोचना ॥ ३५ ॥शाकंभरी समाख्याता शताक्षी वनशंकरी ।त्रिपुरा विजया भीमा तारा त्रैलोक्यसुंदरी ॥ ३६ ॥शांभवी त्रिजगन्माता स्वरात्रिपुरसुंदरी ।कामाक्षी कमलाक्षी च धृतिस्त्रिपुरतापिनी ।शुचौ शाकंबरीदेवी पूजनीया प्रयत्नतः ॥ ३७ ॥ जया जयंर्गती शिवदा जलेशी च रणप्रिया ।गजवक्रा त्रिनेत्रा च शंखिनी चापराजिता ॥ ३८ ॥महिषघ्नी शुभानंदा स्वधा स्वाहा शिवासना ।विद्युज्जिव्हा त्रिवका च चतुर्वक्रा सदाशिवा ।कोटराक्षी शिखिरवा त्रिपदा सर्वमंगला ।मयुरवदनासिद्धिर्बुद्धिः काकरवासती ॥ ३९ ॥हुंकार तालकेशी च सर्वतारा च सुंदरी ।सर्पास्या च महाजिव्हा पाशपाणिर्गरुत्मती ॥ ४० ॥ पद्मावती सुकेशी च पद्मकेशी क्षमावती । पद्मावती सुरमुखी पद्मवक्रा षडानना ॥ ४१ ॥त्रिवर्गफलदा माया रक्षोघ्नी पद्मवासिनी ।प्रणवेशी महोल्काभा विघ्नेशीस्तंभनी खला ॥ ४२ ॥ मातृकावर्णरुपा च अक्षरोच्चारिणी गृहा ।अजपा मोहिनी श्यामा जपरुपा बलोत्कटा ॥ ४३ ॥वाराही वैष्णवी जंभा वार्ताली दैत्यतापिनी ।क्षेमंकरी सिद्धिकरी बहुमाया सुरेश्र्वरी ॥ ४४ ॥ छिन्नमूर्धा छिन्नकेशी दानवेंद्रक्षयंकरी ।शाकंभरी मोक्षलक्ष्मीर्जंभिनी बगलामुखी ॥ ४५ ॥अश्वारुढा महाक्लिन्ना नारसिंही गजेश्र्वरी ।सिद्धेश्र्वरी विश्वदुर्गा चामुंडा शववाहना ॥ ४६ ॥ज्वालामुखी कराली च चिपटा खेचरेश्र्वरी ।शुंभघ्नी दैत्यदर्पघ्नी विंध्याचलनिवासिनी ॥ ४७ ॥योगिनी च विशालाक्षी तथा त्रिपुरभैरवी ।मातंगिनी करालाक्षी गजारुढा महेश्र्वरी ॥ ४८ ॥पार्वती कमलालक्ष्मीः श्वेताचलनिभात्द्युमा ।कात्यायनी शंखरवा धुर्धुरा सिंहवाहिनी ॥ ४९ ॥नारायणीश्वरी चंडी घंटाली देवसुंदरी ।विरुपावामनी कुब्जा कर्णकुब्जा घनस्तनी ॥ ५० ॥नीला शाकंभरी दुर्गा सर्वदुर्गार्तिहारिणी ।द्रंष्ट्राकितमुखा भीमा नीलपत्रशिरोधरा ॥ ५१ ॥ महिषघ्नी महादेवी कुमारी सिंहवाहिनी ।दानवांस्तर्जयंती च सर्वकामदुधा शिवा ॥ ५२ ॥कन्या कुमारिका चैव देवेशी त्रिपुरा तथा ।कल्याणी रोहिणी चैव कालिका चंडिका परा ॥ ५३ ॥शांभवी चैव दुर्गा च सुभद्रा च यशस्विनी ।कलात्मिका कलातीता कारुण्यहृदयाशिवा ॥ ५४ ॥ कारुण्यजननी नित्या कल्याणी करुणाकरा ।कामाधारा कामरुपा कालदंड स्वरुपिणी ॥ ५५ ॥कामदा करुणाधारा कालिका कामदा शुभा ।चंडवीरा चंडमाया चंडमुंडविनाशिनी ॥ ५६ ॥चंडिका शक्तिरत्युग्रा चंडिका चंडविग्रहा ।गजानना सिंहमुखी गृध्रास्या च महेश्र्वरी ॥ ५७ ॥उष्ट्रग्रीवा हयग्रीवा कालरात्रिर्निशाचरी ।कंकाली रौद्रचीत्कारी फेत्कारी भूतडामरी ॥ ५८ ॥वाराही शरभास्या च प्रेताक्षी मांसभोजनी ।कंकाली डाकिनीकाली शुल्कांगीकलहप्रिया ॥ ५९ ॥ उलूकिका शिवारावा धूम्राक्षी चित्रनादिनी ।उर्ध्वकेशी भद्रकेशी शवहस्तांत्रमालिनी ॥ ६० ॥कपालहस्ता रक्ताक्षी श्येनी रुधिरदायिनी ।खड्गिनी दीर्घलंबोष्ठी पाशहस्ता बलाकिनी ॥ ६१ ॥काकतुंडा पाशहस्ता धूर्जटी विषभक्षिणी ।पशुघ्नी पापहंत्री च मयूरी विकटानना ॥ ६२ ॥भयविध्वंसिनी चैव प्रेतास्या प्रेतवाहिनी ।कोटराक्षी लसज्जिव्हा अष्टवक्रा सुरप्रिया ॥ ६३ ॥व्यात्तास्या धूमनिःश्वासा त्रिपुरा भुवनेश्र्वरी ।बृहत्तुंडा दंडहस्ता प्रचंडा चंडविक्रमा ॥ ६४ ॥स्थूलकेशी बृहत्कुक्षी यमदूती करालिनी ।दशवक्रा दशपदा दशहस्ता विलासिनी ॥ ६५ ॥अनाद्यंतस्वरुपा च क्रोधरुपा मनोगति ।मनःश्रुतिस्मृतिघ्राणचक्षुस्त्वग्रसनात्मिका ॥ ६६ ॥योगिनीमानसंस्था च योगिसिद्धिप्रदायिका । उग्रिणी उग्ररुपा च उग्रतारा च उग्रिणी ॥ ६७ ॥उग्ररुपधरा चैव उग्रेशी उग्रवासिनी । भीमा च भीमकेशी च भीममूर्तिश्च भामिनी ॥ ६८ ॥भीमा च भीमरुपा च भीमरुपा जगन्मया ।खड्गिन्यभयहस्ता च घंटाडमरुधारिणी ॥ ६९ ॥पाशिनी नागहस्ता च योनिन्यंकुशधारिणी ।यज्ञा च यज्ञमूर्तिश्च दक्षयज्ञविनाशिनी ॥ ७० ॥यज्ञदीक्षा धरादेवी यज्ञसिद्धिप्रदायिनी ।हिरण्यबाहुचरणा शरणागतपालिनी ॥ ७१ ॥ अनाम्न्यनेक नाम्नीच निर्गुणा च गुणात्मिका ।नमो जगत्प्रतिष्ठा च सर्वकल्याणमूर्तिनी ॥ ७२ ॥ब्रह्मादिसुर वंद्या च गंगाधरजटास्थिता । महामोहा महादीप्ति सिद्धिर्विद्या च योगिनी ॥ ७३ ॥योगिनी चंडिका सिद्धा सिद्धसिद्धा शिवप्रिया ।शरयूर्गोमती भीमा गौतमी नर्मदा मही ॥ ७४ ॥भागीरथी च कावेरी त्रिवेणी गंदकी शरा ।सुषुप्तिर्जागृतिर्निद्रा स्वप्नातुर्या च चक्रिणी ॥ ७५ ॥ अहिल्यारुंधती चैव तारा मंदोदरी तथा ।देवी पद्मावती चैव त्रिपुरेशस्वरुपिणी ॥ ७६ ॥एकवीरा महादेवी कनकाद्याश्चदेवता ।शूलिनी परिघास्त्रा च खड्गिन्याबाह्यदेवता ॥ ७७ ॥कौबेरी धनदा याम्याग्नेयी वायुतनुर्निशा ।ईशानी नैर्ऋतिः सौम्या माहेंद्री वारुणी तथा ॥ ७८ ॥सर्वर्षिःपूजनीयांघ्रिः सर्वयंत्राधिदेवता ।सप्तधातुमयीमूर्तिः सप्तधात्वंतराश्रया ॥ ७९ ॥देहपुष्टिर्मनस्तुष्टिरत्नपुष्ठिर्बलोद्धता ।तपोनिष्ठा तपोयुक्ता तापसःसिद्धिदायिनी ॥ ८० ॥ तपस्विनी तपःसिद्धिः तापसी च तपःप्रिया ।औषधी वैद्यमाता च द्रव्यशक्तिःप्रभाविनी ॥ ८१ ॥वेदविद्या च विद्या च सुकुला कुलपूजिता । जालंधरशिरःछेत्री महर्षिहितकारिणी ॥ ८२ ॥योगनीतिर्महायोगा कालरात्रिर्महारवा ।अमोहा च प्रगल्भा च गायत्रीहरवल्लभा ॥ ८३ ॥विप्राख्या व्योमकारा च मुनिविप्र प्रियासती ।जगत्कीर्तिर्जगत्कारी जगश्वासा जगन्निधिः ॥ ८४ ॥जगत्प्राणा जगद्दंष्ट्रा जगज्जिव्हा जगद्रसा ।जगचक्षुर्जगत्घ्राणा जगच्छोत्रा जगन्मुखा ॥ ८५ ॥ जगच्छत्रा जगद्वक्रा जगद्भर्त्रीजगत्पिता ।जगत्पत्नी जगन्माता जगद्धात्री जगत्सुहृत् ॥ ८६ ॥जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मती ।सर्वस्तंभी महामाया जगद्दीक्षाजया तथा ॥ ८७ ॥ भक्त्यैयलक्ष्या द्विविधा त्रिविधा च चतुर्विधा ।इंद्राक्षी पंचरुपा च सहस्त्ररुपधारिणी ॥ ८८ ॥मूलादिवासिनी चैव अंबापुर निवासिनी ।नवकुंभा नवरुचिः कामज्वाला नवानना ॥ ८९ ॥ गर्भज्वाला तथा बाला चक्षुर्ज्वाला नवांबरा ।नवरुपा नवकला नवनाडी नवानना ॥ ९० ॥नवक्रीडा नवविधा नवयोगिनिका तथा ।वेदविद्या महाविद्या विद्यादात्री विशारदा ॥ ९१ ॥कुमारी युवती बाला कुमारीव्रत चारिणी ।कुमारी भक्तसुखिनी कुमारीरुपधारिणी ॥ ९२ ॥भवानी विष्णुजननी ब्रह्मादिजननी परा ।गणेशजननी शक्तिः कुमारजननीशुभा ॥ ९३ ॥भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी ।भगात्मिका भगाधारा रुपिणी भगमालिनी ॥ ९४ ॥ भवरोगहरा भव्या सुभ्रुःपरममंगला ।शर्वाणी चपलापांगी चारुचंद्राकलपरा ॥ ९५ ॥ विशालाक्षी विश्वमाता विश्ववंद्या विलासिनी ।शुभप्रदा शुभावार्ता वृत्तपीनपयोधरा ॥ ९६ ॥अंबासंसारमथिनी मृडानी सर्वमंगला ।विष्णुसंसेविता शुद्धाब्रह्मादिसुरसेविता ॥ ९७ ३परमानंदशक्तिश्च परमानंदरुपिणी ।परमानंदजननी परमान्नंदप्रदायिनी ॥ ९८ ॥परोपकारनिरता परमाभक्तवत्सला ।आनंदभैरवी बाला भैरवी बटुभैरवी ॥ ९९ ॥ श्मशान भैरवी काली भैरवी रुरुभैरवी ॥ १०० ॥पूर्णचंद्राभवदना पूर्णचंद्रनिभांशुका ।शुभलक्षणसंपन्ना शुभानंतगुणार्णवा ॥ १०१ ॥शुभसौभाग्यनिलया शुभाचाररताप्रिया ।सुखसंभोगभवना सर्वसौख्यनिरुपिणी ॥ १०२ ॥अवलंबा तथा वाग्मी प्रवरा वाद्यवादिनी । घूर्णादिपट्टला कोपादुतीर्णकुटिलानना ॥ १०३ ॥पापदा पापनाशा च ब्रह्माग्नीशापमोचनी ।सर्वातीता च उच्छिष्टा चांडाली परिघायुधा ॥ १०४ ॥ॐ कारी वेदकारी च र्‍हींकारी सकलगमा ।यंकारी चर्चिता चर्ची चर्चिता चक्ररुपिणी ॥ १०५ ॥महाव्याधवरारोहा धनुर्बाणधरा धरा ।लंबिनी च पिपासा च क्षुधा संदेशिका तथा ॥ १०६ ॥ भुक्तिदा मुक्तिदा देवी सिद्धिदा शुभदायिनी ।सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥ १०७ ॥चन्डिका चन्डमथिनी चंडदर्पनिवारिणी ।चंडमार्तंडनयना चंद्राग्निनयना सती ॥ १०८ ॥सर्वांगसुंदरी रक्ता रक्तवस्त्रोत्तरीयका ।जपापावकसिंदुरा रक्तचंदनधारिणी ॥ १०९ ॥कर्पूरागरुकस्तूरीकुंकुमद्रवलेपिनी ।विचित्ररत्नपृथिवी कल्मषांघ्रीतलास्थिता ॥ ११० ॥भगात्मिका भगाधारा रुपिणी भगमालिनी ।लिंगाभिधायिनी लिंगप्रियलिंगानिवासिनी ॥ १११ ॥भगलिंगस्वरुपा च भगलिंगसुखावहा ।स्वयंभूकुसुमप्रीता स्वयंभूकुसुमार्चिता ॥ ११२ ॥स्वयंभुकुसुमस्नाता स्वयंभूपुष्पतर्पिता ।स्वयंभूपुष्पतिलका स्वयंभूपुष्पधारीणी ॥ ११३ ॥पुंडरीककरा पुण्या पुण्यदा पुण्यरुपिणी ।पुण्यज्ञेया पुण्यवंद्या पुण्यमूर्तिः पुरातना ॥ ११४ ॥ अनवद्या वेदवेद्या वेदवेदांतरुपिणी । मायातीता सृष्टमाया माया धर्मात्मवंदिता ॥ ११५ ॥असृष्टा संगरहिता सृष्टिहेतुः कपर्दिनी ।वृषारुढा शूलहस्ता स्थितिसंहारकारिणी ॥ ११६ ॥मंदस्थितिः शुद्धरुपा शुद्धचित्तमुनिस्तुता ।महाभाग्यवती दक्षा दक्षाध्वर विनाशिनी ॥ ११७ ॥ अपर्णानन्यशरणा भक्ताभीष्टफलप्रदा ।नित्या सुंदरसर्वांगी सच्चिदानंदलक्षणा ॥ ११८ ॥कामजा केलिका केलि कर्षा कर्बुरकालजा ।गिरिजागर्वजा गोत्रा अकुला कुलजा तथा ॥ ११९ ॥दिनजा दिनमाता च वेदजा वेदसंभृता ।क्रोधजा कुटजा धारा परमा बलगर्विता ॥ १२० ॥सर्वलोकोत्तरा भावा सर्वकालोद्भवात्मिका ।कुंडगोलोद्भवा प्रीता कुंडगोलोद्भवात्मिका ॥ १२१ ॥कुंदपुष्पसदाप्रीति पुष्पगोलसदारतिः ।शुक्रमूर्तिः शुक्रदेहा शुक्रपुजितमूर्तिनी ॥ १२२ ॥विदेहा विमला शुक्रा चौंडा कर्नाटकी तथा ।त्रिमाता उत्कला मौंडी विरेखा वीरवंदिता ॥ १२३ ॥शामला गौरवी पीना मागधेश्वर वंदिता ।पार्वती कर्मनाशा च कैलासवासिका तथा ॥ १२४ ॥शालिग्रामशिला माली शार्दूला पिंगकेशिनी ।नारदा शारदा चैव रेणुका गगनेश्वरी ॥ १२५ ॥ धेनुरुपा रुक्मिणी च गोपिका यमुनाश्रया ।सुकंठा कोकिला मेना चिरानंदा शिवात्मिका ॥ १२६ ॥कंदर्पकोटिलावण्या सुंदरा सुंदरस्तनी ।विश्वपक्षा विश्वरक्षा विश्वनाथ प्रियासती ॥ १२७ ॥योगिनी योगयुक्ता च योगांगध्यानशालिनी ।योगट्टधरा मुक्ता मुक्तानांपरामागतिः ॥ १२८ ॥कुरुक्षेत्रवती काशि मथुरा कांत्यवंतिका ।अयोध्या द्वारका माया तीर्था तीर्थकरीप्रिया ॥ १२९ ॥त्रिपुष्करा प्रमेया च कोशस्था कोशवासिनी ।कुशावर्ता कौशिकी च कोशांबा कोशवर्धिनी ॥ १३० ॥पद्मकोशा कोशदाक्षी कुसुंभकुसुमप्रिया । तुलाकोटि च काकुत्स्था कुक्कुटा च रवाश्रया ॥ १३१ ॥ॐ र्‍हीं यं यां रुद्र दैवत्यायै योगेश्वर्ये स्वाहा ।पुत्रदा पौत्रदा पौत्री दिव्यादा दिव्यभोगदा ॥ १३२ ॥स्त्रुक्स्त्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता । माता मातामही तृप्तिः पितुर्माता पितामही ॥ १३३ ॥स्नुषा दौहित्रिणी पुत्री दोलाक्रीडाभिनंदिनी ।पोषिणीशोषिणीशक्तिर्दीर्घकेशी सुलोमशा ॥ १३४ ॥सप्ताब्धिसंश्रयानित्या सप्तद्विपाब्धिमेखला ।सूर्यदीप्तिर्वज्रशक्तिर्मदोन्मत्ता च पिंगला ॥ १३५ ॥ सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ।सर्वमंत्रमयी विद्या सर्वमंत्राक्षरावरा ॥ १३६ ॥सर्वज्ञदा विश्वमाता भक्तानुग्रहकारिणी ।विश्वप्रिया प्राणशक्तिर्नंतगुणनामधीः ॥ १३७ ॥पंचाशद्विष्णुशक्तिश्च पंचाशन्मातृकामयी ।द्विपंचाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रया ॥ १३८ ॥चतुःषष्टिमहासिद्धिर्योगिनी वृंदवंदिनी ।चतुःषड्वर्णनिर्णेयी चतुःषष्टिकलानिधिः ॥ १३९ ॥अष्टषष्टिमहातीर्थक्षेत्रभैरववासिनी ।चतुर्नवतिमंत्रात्मा षण्णवत्याधिकाप्रिया ॥ १४० ॥सहस्त्रपत्रनिलया सहस्त्रफणिभूषणा । सहस्त्रनामसंस्तोत्रा सहस्त्रक्षबलापहा ॥ १४१ ॥प्रकाशाख्या विशालाक्ष्या प्रकाशिकविमर्शका ।निर्वाणचरणदेवी चतुश्चरणसंज्ञका ॥ १४२ ॥चतुर्विज्ञानशक्त्याढ्या सुभगा च क्रियायुता ।स्मरेशा शांतिदा इच्छा इच्छाशक्तिसमन्विता ॥ १४३ ॥निशांबरा च राजन्यपूजिता च निशाचरी । सुंदरी चौर्ध्वकेशी च कामदा मुक्तकेशिका ॥ १४४ ॥ मानिनीतिसमाख्याता वीराणांजयदायिनी ।यामलीति समाख्याता नासाग्रबिंदुमालिनी ॥ १४५ ॥या कंका च करालांगी चंद्रकाला च संश्रया ।चक्रिणी शंखिनी रौद्रा एकपादा त्रिलोचना ॥ १४६ ॥भीषणीर्भैरवी भीमा चंद्रहासा मनोरमा । विश्वरुपा महादेवी घोररुपा प्रकाशिका ॥ १४७ ॥कपालमालिकायुक्ता मूलपीठस्थिता रमा ।योगिनी विष्णुरुपा च सर्वदेवर्षिपूजिता ॥ १४८ ॥सर्वतीर्थपरादेवी तीर्थदक्षिणतःस्थिता ।श्रीसदाशिवउवाच ।दिव्यनाम सहस्त्रं ते योगेश्वर्यामयोदितं ॥ १४९ ॥यः पठेत्पाठयेद्वापि स मुक्तो नात्र संशयः ।अष्टम्यां भूतपौर्णम्यां नवम्यां दर्शभौमयोः ॥ १५० ॥अयनेषूपरागे च पुण्यकाले विशेषतः ।सर्वसौभाग्यसिद्धर्थं जपनीयं प्रयत्नतः ॥ १५१ ॥सर्वाभिष्टकरं पुण्यं नित्यमंगलदायकं ।इयं नामावली तुभ्यं मयाद्य समुदीरिता ॥ १५२ ॥गोपनीया प्रयत्नेन नाख्येया च कदाचन ।भक्ताय ज्येष्ठपुत्राय देयं शिष्याय धीमते ॥ १५३ ॥ आवहंतीतिमंत्रेण युक्तान्येतानि सादरं ।यो जपेत्सततं भक्त्या सकामांल्लभतेध्रुवम् ॥ १५४ ॥ कार्याण्यावाहनादीनि देव्याशुचिरतात्मभिः ।आवहंतीति मंत्रेण प्रत्येकं च यथाक्रमम् ॥ १५५ ॥कर्तव्यं तर्पनं चापि तेन मंत्रेण मूलवत् ।तदन्वितैश्च होमोपि कर्तव्यं स्तैश्च मूलतः ॥ १५६ ॥एतानि दिव्य नामानिश्रुत्वा ध्यात्वाऽपि योनरः । ध्यात्वा देवीं च सततं सर्वकामार्थसिद्धये ॥ १५७ ॥एतज्जपप्रसादेन नित्यतृप्तोवसाम्यहं ।संतुष्टहृदयो नित्यं वसाम्यत्रार्चयं शिवाम् ॥ १५८ ॥स्वापकाले प्रबोधे च यात्राकाले विशेषतः । तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ॥ १५९ ॥राजद्वारे सभास्थाने विवादे विप्लवे तथा ।चोरव्याघ्रभयं नास्ति संग्रामे जयवर्धनम् ॥ १६० ॥क्षयापस्मारकुष्ठादितापज्वर निवारणम् । महाज्वरं तथात्युग्रं शीतज्वरनिवारणम् ॥ १६१ ॥दोषादिसंन्निपातं च रोगाणां हंति सर्वशः ।भूतप्रेतपिशाचाश्च रक्षां कुर्वंतिसर्वशः ॥ १६२ ॥जपेत्सहस्त्रनमाख्यं योगिन्याः सर्व कामदम् ।यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ १६३ ॥ त्रिकालमेककालं वा श्रद्ध्या प्रयतः पठेत् ।सर्वान् रिपून्क्षणाज्जित्वा यः पुमांश्र्रियमाप्नुयात् ॥ १६४ ॥डाकिनी शाकिनी चैव वेतालब्रह्मराक्षसां ।कूष्मांडादिभयं सर्वं नश्यति स्मरणात्ततः ॥ १६५ ॥वने रणे महाघोरे कारागृहनियंत्रके ।सर्वसंकटनाशार्थं स्तोत्रपाठः सुसिद्धये ॥ १६६ ॥वंध्या वा काकवंध्या वा मृतवंध्या च यांगना । श्रुत्वा स्तोत्रमिदं पुत्रांल्लभते चिरजीविनः ॥ १६७ ॥स्वयंभुकुसुमैः शुक्रैः सुगंधिकुसुमान्वितैः ।कुंकुमागरुकस्तुरीसिंदूरादिभिरर्चयेत् ॥ १६८ ॥फलपुष्पादिभिर्युक्तैः मध्वाज्यैःपायसान्वितैः ।पक्वाने षड्रसैर्भोज्यैः स्वाद्वंनैश्च चतुर्विधैः ॥ १६९ ॥कुमारीं पूजयेत्भक्त्या ब्राह्मणांश्च सुवासिनीः ।शक्तितो दक्षिणां दत्वा वासोलंकारभूषणैः ॥ १७० ॥अनेन विधिना पूज्या देव्या संतुष्टकारकम् ।सहस्त्रनामपाठात्तु कार्यसिद्धिर्नसंशयः ॥ १७१ ॥रमाकांत सुराधीश प्रोक्तं गुह्यतरं मया ।नासूयकाय वक्तव्यं न मूर्खायाततायिने ॥ १७२ ॥सत्यं सत्यं पुनः सत्यं उध्दृत्य भुजमुच्यते । नानया सदृशी विद्या न देव्या योगिनी परा ॥ १७३ ॥इति श्रीरुद्रयामले उत्तरखंडे देवीचरित्रे विष्णुशंकरसंवादे योगेश्र्वरीसहस्त्रनाम स्तोत्रं संपूर्णम् ॥

Thursday, 5 August 2021

🌹 *संस्कृत आरती*जयदेव जयदेव गणपति गजवदना । मंगलमूर्ते आरति तव संतत सदना ॥ध्रु०॥विश्वाधारा पार्वतितनया विघ्नहरा । हारा लंबोदर हरमोदक मोदकरा ।अखिलसुरार्चितदेवा अर्पितसर्ववरा । विद्यानिधि धनदाता पालय मां सुकरा ॥१॥सृष्टिस्थितिपाता त्वं पूर्णब्रम्ह त्वं । शशिभाल: सुरपालो मूषकवाहस्त्वं ।गिरिजानंदा ब्रह्मानंदा मोदस्त्वं । सत्धर्ममार्गदाता वदान्यदाता त्वं ॥२॥प्रणवातीता प्रणवाकारा भो सुमुखा । एकोनेको रूपो रूपस्त्वं प्रमुख: ।सुखधामनाम सुखकर सुरगुरुवरलेख: । अस्मान् रक्षतु विद्यादुरिता च्चित्पाल: ॥३॥सिंदुरचर्चितगात्रो दुर्वाकुरभाल: । प्रियरक्तगंधपुष्पो मंदारमुमाल: ।वरदाभयपाशांकुशधृतकर सुरपाल: । करुणासागर दरहर नृसिंहयतिलेख: ॥४॥*संकलन :- अशोककाका कुलकर्णी*